When exuberance ceases and [burdensome] mental activity lifts, manifesting stops and the pull of the divided heart too: this is [real] change.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ
vyutthānanirodhasaṃskārayor abhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ
YS 3.9
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] व्युत्थानसंस्काराश् चित्तधर्मा न ते प्रत्ययात्मका इति प्रत्ययनिरोधे न निरुद्धा निरोधसंस्कारा अपि चित्तधर्मास् तयोर् अभिभवप्रादुर्भावौ व्युत्थानसंस्कारा हीयन्ते निरोधसंस्कारा आधीयन्ते। निरोधक्षणं चित्तम् अन्वेति तद् एकस्य चित्तस्य प्रतिक्षणम् इदं संस्कारान्यथात्वं निरोधपरिणामः। तदा संस्कारशेषं चित्तम् इति निरोधसमाधौ व्याख्यातम्।