Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

tasya bhūmiṣu viniyogaḥ

tasya bhūmiṣu viniyogaḥ

YS 3.6

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

It proceeds by stages,

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] तस्य संयमस्य जितभूमेर् यानन्तरा भूमिस् तत्र विनियोगः। न ह्य् अजिताधरभूमिर् अनन्तरभूमिं विलङ्घ्य प्रान्तभूमिषु संयमं लभते। तदभावाच् च कुतस् तस्य प्रज्ञालोकः। ईश्वरप्रसादाज् जितोत्तरभूमिकस्य च नाधरभूमिषु परचित्तज्ञानादिषु संयमो युक्तः। कस्मात्, तदर्थस्यान्यत एवावगतत्वात्। भूमेर् अस्या इयम् अनन्तरा भूमिर् इत्य् अत्र योग एवोपाध्यायः। कथम् एवं ह्य् उक्तम्। "योगेन योगो ज्ञातव्यो योगो योगात् प्रवर्तते / योऽप्रमत्तस् तु योगेन स योगे रमते चिरम्" इति।