Mind and self thus purified, [the meditator attains] liberation.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
sattvapuruṣayoḥ śuddhisāmye kaivalyam iti
sattvapuruṣayoḥ śuddhisāmye kaivalyam iti
YS 3.55
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] यदा निर्धूतरजस्तमोमलं बुद्धिसत्त्वं पुरुषस्यान्यताप्रतीतिमात्राधिकारं दग्धक्लेशबीजं भवति तदा पुरुषस्य शुद्धिसारूप्यम् इवापन्नं भवति, तदा पुरुषस्योपचरितभोगाभावः शुद्धिः। एतस्याम् अवस्थायां कैवल्यं भवतीश्वरस्यानीश्वरस्य वा विवेकजज्ञानभागिन इतरस्य वा। न हि दग्धक्लेशबीजस्य ज्ञाने पुनर् अपेक्षा काचिद् अस्ति सत्त्वशुद्धिद्वारेणैतत् समाधिजम् ऐश्वर्यं ज्ञानं चोपक्रान्तम्। परमार्थतस् तु ज्ञानाद् अदर्शनं निवर्तते तस्मिन् निवृत्ते न सन्त्य् उत्तरे क्लेशाः। क्लेशाभावात् कर्मविपाकाभावः चरिताधिकाराश् चैतस्याम् अवस्थायां गुणा न पुरुषस्य पुनर् दृश्यत्वेनोपतिष्ठन्ते। तत्पुरुषस्य कैवल्यं, तदा पुरुषः स्वरूपमात्रज्योतिर् अमलः केवली भवति।