Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ

jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ

YS 3.53

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

From this, [the yogi] differentiates between similar things previously indistinguishable by origin, characteristic, or position.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] तुल्ययोर् देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौर् इयं बडवेयम् इति। तुल्यदेशजातीयत्वे लक्षणम् अन्यत्वकरं कालाक्षी गौः स्वस्तिमती गौर् इति। द्वयोर् आमलकयोर् जातिलक्षणसारूप्याद् देशभेदोऽन्यत्वकर इदं पूर्वम् इदम् उत्तरम् इति। यदा तु पूर्वम् आमलकम् अन्यव्यग्रस्य ज्ञातुर् उत्तरदेश उपावर्त्यते तदा तुल्यदेशत्वे पूर्वम् एतद् उत्तरम् एतद् इति प्रविभागानुपपत्तिः। असंदिग्धेन च तत्त्वज्ञानेन भवितव्यम् इत्य् अत इदम् उक्तं ततः प्रतिपत्तिर् विवेकजज्ञानाद् इति। कथं, पूर्वामलकसहक्षणो देश उत्तरामलकसहक्षणाद् देशाद् भिन्नः ते चामलके स्वदेशक्षणानुभवभिन्ने। अन्यदेशक्षणानुभवस् तु तयोर् अन्यत्वे हेतुर् इति। एतेन दृष्टान्तेन परमाणोस् तुल्यजातिलक्षणदेशस्य पूर्वपरमाणुदेशसहक्षणसाक्षात्करणाद् उत्तरस्य परमाणोस् तद्देशानुपपत्ताव् उत्तरस्य तद्देशानुभवो भिन्नः सहक्षणभेदात् तयोर् ईश्वरस्य योगिनोऽन्यत्वप्रत्ययो भवतीति। अपरे तु वर्णयन्ति --- येऽन्त्या विशेषास् तेऽन्यताप्रत्ययं कुर्वन्तीति तत्रापि देशलक्षणभेदो मूर्तिव्यवधिजातिभेदश् चान्यत्वे हेतुः। क्षणभेदस् तु योगिबुद्धिगम्य एवेति अत उक्तं मूर्तिव्यवधिजातिभेदाभावान् नास्ति मूलपृथक्त्वम् इति वार्षगण्यः।