Knowledge born of seclusion reveals the sequence of moments.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam
kṣaṇatatkramayoḥ saṃyamād vivekajaṃ jñānam
YS 3.52
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] यथापकर्षपर्यन्तं द्रव्यं परमाणुर् एवं परमापकर्षपर्यन्तः कालः क्षणो यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्याद् उत्तरदेशम् उपसंपद्येत स कालः क्षणः। तत्प्रवाहाविच्छेदस् तु क्रमः क्षणतत्क्रमयोर् नास्ति वस्तुसमाहार इति बुद्धिसमाहारो मुहूर्ताहोरात्रादयः। स खल्व् अयं कालो वस्तुशून्योऽपि बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवावभासते। क्षणस् तु वस्तुपतितः क्रमावलम्बी क्रमश् च क्षणानन्तर्यात्मा तं कालविदः काल इत्य् आचक्षते योगिनः। न च द्वौ क्षणौ सह भवतः क्रमश् च न द्वयोः सहभुवोर् असंभवात्। पूर्वस्माद् उत्तरभाविनो यदानन्तर्यं क्षणस्य स क्रमः तस्माद् वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति। तस्मान् नास्ति तत्समाहारः ये तु भूतभाविनः क्षणास् ते परिणामान्विता व्याख्येयाः तेनैकेन क्षणेन कृत्स्नो लोकः परिणामम् अनुभवति। तत्क्षणोपारूढाः खल्व् अमी सर्वे धर्माः तयोः क्षणतत्क्रमयोः संयमात् तयोः साक्षात्करणम्। ततश् च विवेकजं ज्ञानं प्रादुर्भवति।