Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt

sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt

YS 3.51

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Though able to attain a high rebirth [from that point, the yogin,] inclined to disinterest, gives rise [instead] to no more attachment or pride.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] चत्वारः खल्व् अमी योगिनः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिर् अतिक्रान्तभावनीयश् चेति। तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः ऋतंभरप्रज्ञो द्वितीयः भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्तव्यसाधनाद् इमान्। चतुर्थो यस् त्व् अतिक्रान्तभावनीयस् तस्य चित्तप्रतिसर्ग एकोऽर्थः सप्तविधास्य प्रान्तभूमिप्रज्ञा। तत्र मधुमतीं भूमिं साक्षात्कुर्वतो ब्राह्मणस्य स्थानिनो देवाः सत्त्वविशुद्धिम् अनुपश्यन्तः स्थानैर् उपनिमन्त्रयन्ते भो इहास्यताम् इह रम्यतां कमनीयोऽयं भोगः कमनीयेयं कन्या रसायनम् इदं जरामृत्युं बाधते वैहायसम् इदं यानम् अमी कल्पद्रुमाः पुण्या मन्दाकिनी सिद्धा महर्षय उत्तमा अनुकूला अप्सरसो दिव्ये श्रोत्रचक्षुषी वज्रोपमः कायः स्वगुणैः सर्वम् इदम् उपार्जितम् आयुष्मता प्रतिपद्यताम् इदम् अक्षयम् अजरम् अमरस्थानं देवानां प्रियम् इति। एवम् अभिधीयमानः सङ्गदोषान् भावयेद् घोरेषु संसाराङ्गारेषु पच्यमानेन मया जननमरणान्धकारे विपरिवर्तमानेन कथंचिद् आसादितः क्लेशतिमिरविनाशी योगप्रदीपस् तस्य चैते तृष्णायोनयो विषयवायवः प्रतिपक्षाः। स खल्व् अहं लब्धालोकः कथम् अनया विषयमृगतृष्णया वञ्चितस् तस्यैव पुनः प्रदीप्तस्य संसाराग्नेर् आत्मानम् इन्धनीकुर्याम् इति। स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनप्रार्थनीयेभ्यो विषयेभ्य इत्य् एवं निश्चितमतिः समाधिं भावयेत्। सङ्गम् अकृत्वा स्मयम् अपि न कुर्याद् एवम् अहं देवानाम् अपि प्रार्थनीय इति स्मयाद् अयं सुस्थितंमन्यतया मृत्युना केशेषु गृहीतम् इवात्मानं न भावयिष्यति। तथा चास्य च्छिद्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशान् उत्तम्भयिष्यति ततः पुनर् अनिष्टप्रसङ्गः। एवम् अस्य सङ्गस्मयाव् अकुर्वतो भावितोऽर्थो दृढीभविष्यति भावनीयश् चार्थोऽभिमुखीभविष्यतीति।