Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

tadvairāgyād api doṣabījakṣaye kaivalyam

tadvairāgyād api doṣabījakṣaye kaivalyam

YS 3.50

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

[But] through dispassion towards even this, [and] with the [prior] weakening of the seeds of delusion, [instead comes] liberation.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] यदास्यैवं भवति क्लेशकर्मक्षये सत्त्वस्यायं विवेकप्रत्ययो धर्मः सत्त्वं च हेयपक्षे न्यस्तं पुरुषश् चापरिणामी शुद्धोऽन्यः सत्त्वाद् इति। एवम् अस्य ततो विरज्यमानस्य यानि क्लेशबीजानि दग्धशालिबीजकल्पान्य् अप्रसवसमर्थानि तानि सह मनसा प्रत्यस्तं गच्छन्ति। तेषु प्रलीनेषु पुरुषः पुनर् इदं तापत्रयं न भुङ्क्ते। तद् एतेषां गुणानां मनसि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्यात्यन्तिको गुणवियोगः कैवल्यं तदा स्वरूपप्रतिष्ठा चितिशक्तिर् एव पुरुष इति।