Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca

sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca

YS 3.49

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Even just once seeing this distinction between the mind and the person can lead to a supreme, omniscient existence.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] निर्धूतरजस्तमोमलस्य बुद्धिसत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम्। सर्वात्मानो गुणा व्यवसायव्यवसेयात्मकाः स्वामिनं क्षेत्रज्ञं प्रत्यशेषदृश्यात्मत्वेनोपस्थिता इत्य् अर्थः। सर्वज्ञातृत्वं सर्वात्मनां गुणानां शान्तोदिताव्यपदेश्यधर्मत्वेन व्यवस्थितानाम् अक्रमोपारूढं विवेकजं ज्ञानम् इत्य् अर्थः। इत्य् एषा विशोका नाम सिद्धिर् यां प्राप्य योगी सर्वज्ञः क्षीणक्लेशबन्धनो वशी विहरति।