Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ

grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ

YS 3.47

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Conceit, grasping at appearances, and the tug of meaning reveal how to conquer the faculties.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] सामान्यविशेषात्मा शब्दादिर् ग्राह्यः तेष्व् इन्द्रियाणां वृत्तिर् ग्रहणम्। न च तत्सामान्यमात्रग्रहणाकारं कथम् अनालोचितः स विषयविशेष इन्द्रियेण मनसानुव्यवसीयेतेति। स्वरूपं पुनः प्रकाशात्मनो बुद्धिसत्त्वस्य सामान्यविशेषयोर् अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यम् इन्द्रियम्। तेषां तृतीयं रूपम् अस्मितालक्षणोऽहंकारः। तस्य सामान्यस्येन्द्रियाणि विशेषाः चतुर्थं रूपं व्यवसायात्मकाः प्रकाशक्रियास्थितिशीला गुणा येषाम् इन्द्रियाणि साहंकाराणि परिणामः। पञ्चमं रूपं गुणेषु यद् अनुगतं पुरुषार्थवत्त्वम् इति। पञ्चस्व् एतेष्व् इन्द्रियरूपेषु यथाक्रमं संयमस् तत्र तत्र जयं कृत्वा पञ्चरूपजयाद् इन्द्रियजयः प्रादुर्भवति योगिनः।