Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

tato 'ṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca

tato 'ṇimādiprādurbhāvaḥ kāyasaṃpat taddharmānabhighātaś ca

YS 3.45

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

From this come [the insights] such as the atomization of objects, etc, and the direct, pristine [knowledge] of the Dharma's indestructibility.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] तत्राणिमा भवत्य् अणुः लघिमा लघुर् भवति महिमा महान् भवति। प्राप्तिर् अङ्गुल्यग्रेणापि स्पृशति चन्द्रमसम्। प्राकाम्यम् इच्छानभिघातः भूमाव् उन्मज्जति निमज्जति यथोदके। वशित्वं भूतभौतिकेषु वशी भवत्य् अवश्यश् चान्येषाम् ईशितृत्वं तेषां प्रभवाप्ययव्यूहानाम् ईष्टे। यत्र कामावसायित्वं सत्यसंकल्पता यथा संकल्पस् तथा भूतप्रकृतीनाम् अवस्थानम्। न च शक्तोऽपि पदार्थविपर्यासं करोति कस्मात् अन्यस्य यत्र कामावसायिनः पूर्वसिद्धस्य तथा भूतेषु संकल्पाद् इति। एतान्य् अष्टाव् ऐश्वर्याणि। कायसंपद् वक्ष्यमाणा तद्धर्मानभिघातश् च पृथ्वी मूर्त्या न निरुणद्धि योगिनः शरीरादिक्रियां, शिलाम् अप्य् अनुविशतीति। नापः स्निग्धाः क्लेदयन्ति नाग्निर् उष्णो दहति न वायुः प्रणामी वहति अनावरणात्मकेऽप्य् आकाशे भवत्य् आवृतकायः सिद्धानाम् अप्य् अदृश्यो भवति।