The grossness, appearance, subtlety, constitution, and purposefulness of objects reveal their conquest.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ
sthūlasvarūpasūkṣmānvayārthavattvasaṃyamād bhūtajayaḥ
YS 3.44
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] तत्र पार्थिवाद्याः शब्दादयो विशेषाः सहाकारादिभिर् धर्मैः स्थूलशब्देन परिभाषिताः एतद् भूतानां प्रथमं रूपम्। द्वितीयं रूपं स्वसामान्यं मूर्तिर् भूमिः स्नेहो जलं वह्निर् उष्णता वायुः प्रणामी सर्वतोगतिर् आकाश इत्य् एतत् स्वरूपशब्देनोच्यते। अस्य सामान्यस्य शब्दादयो विशेषाः तथा चोक्तम् --- एकजातिसमन्वितानाम् एषां धर्ममात्रव्यावृत्तिर् इति। सामान्यविशेषसमुदायोऽत्र द्रव्यम्। द्विष्ठो हि समूहः प्रत्यस्तमितभेदावयवानुगतः शरीरं वृक्षो यूथं वनम् इति। शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्याः समूहस्य देवा एको भागो मनुष्या द्वितीयो भागस् ताभ्याम् एवाभिधीयते समूहः। स च भेदाभेदविवक्षितः। आम्राणां वनं ब्राह्मणानां संघ आम्रवणं ब्राह्मणसंघ इति। स पुनर् द्विविधो युतसिद्धावयवोऽयुतसिद्धावयवश् च। युतसिद्धावयवः समूहो वनं संघ इति अयुतसिद्धावयवः संघातः शरीरं वृक्षः परमाणुर् इति। अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यम् इति पतञ्जलिः एतत् स्वरूपम् इत्य् उक्तम्। अथ किम् एषां सूक्ष्मरूपं, तन्मात्रं भूतकारणं, तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्मायुतसिद्धावयवभेदानुगतः समुदाय इत्य् एवं सर्वतन्मात्राण्य् एतत् तृतीयम्। अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावानुपातिनोऽन्वयशब्देनोक्ताः। अथैषां पञ्चमं रूपम् अर्थवत्त्वं, भोगापवर्गार्थता गुणेष्व् एवान्वयिनी, गुणास् तन्मात्रभूतभौतिकेष्व् इति सर्वम् अर्थवत्। तेष्व् इदानीं भूतेषु पञ्चसु पञ्चरूपेषु संयमात् तस्य तस्य रूपस्य स्वरूपदर्शनं जयश् च प्रादुर्भवति। तत्र पञ्च भूतस्वरूपाणि जित्वा भूतजयी भवति तज्जयाद् वत्सानुसारिण्य इव गावोऽस्य संकल्पानुविधायिन्यो भूतप्रकृतयो भवन्ति।