Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ

bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ

YS 3.43

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

When the mind moves to the formless state, beyond the body, the covering of the light [of the citta] is weakened.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] शरीराद् बहिर् मनसो वृत्तिलाभो विदेहा नाम धारणा। सा यदि शरीरप्रतिष्ठस्य मनसो बहिर्वृत्तिमात्रेण भवति सा कल्पितेत्य् उच्यते। या तु शरीरनिरपेक्षा बहिर्भूतस्यैव मनसो बहिर्वृत्तिः सा खल्व् अकल्पिता तत्र कल्पितया साधयन्त्य् अकल्पितां महाविदेहाम् इति। यया परशरीराण्य् आविशन्ति योगिनः, ततश् च धारणातः प्रकाशात्मनो बुद्धिसत्त्वस्य यदावरणं क्लेशकर्मविपाकत्रयं रजस्तमोमूलं तस्य च क्षयो भवति।