The relationship between the body and air, and how cotton attains its lightness, reveal [how] the body goes through the air.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam
kāyākāśayoḥ saṃbandhasaṃyamāl laghutūlasamāpatteś cākāśagamanam
YS 3.42
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] यत्र कायस् तत्राकाशं तस्यावकाशदानात् कायस्य तेन संबन्धः प्राप्तिस् तत्र कृतसंयमो जित्वा तत्संबन्धं लघुषु वा तूलादिष्व् आ परमाणुभ्यः समापत्तिं लब्ध्वा जितसंबन्धो लघुर् भवति। लघुत्वाच् च जले पादाभ्यां विहरति ततस् तूर्णनाभितन्तुमात्रे विहृत्य रश्मिषु विहरति ततो यथेष्टम् आकाशगतिर् अस्य भवतीति।