Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram

śrotrākāśayoḥ saṃbandhasaṃyamād divyaṃ śrotram

YS 3.41

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

The relationship between ear and air reveals divine hearing.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] सर्वश्रोत्राणाम् आकाशं प्रतिष्ठा सर्वशब्दानां च यथोक्तम् --- तुल्यदेशश्रवणानाम् एकदेशश्रुतित्वं सर्वेषां भवतीति तच् चैतद् आकाशस्य लिङ्गम्। अनावरणं चोक्तम्। तथामूर्तस्यानावरणदर्शनाद् विभुत्वम् अपि प्रख्यातम् आकाशस्य। शब्दग्रहणानुमितं श्रोत्रम्। बधिराबधिरयोर् एकः शब्दं गृह्णात्य् अपरो न गृह्णातीति तस्माच् छ्रोत्रम् एव शब्दविषयम् श्रोत्राकाशयोः संबन्धे कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते।