The mind enters a body when the causes binding it loosen and it is compelled that way.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ
bandhakāraṇaśaithilyāt pracārasaṃvedanāc ca cittasya paraśarīrāveśaḥ
YS 3.38
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] लोलीभूतस्य मनसोऽप्रतिष्ठस्य शरीरे कर्माशयवशाद् बन्धः प्रतिष्ठेत्य् अर्थः तस्य कर्मणो बन्धकारणस्य शैथिल्यं समाधिबलाद् भवति। प्रचारसंवेदनं च चित्तस्य समाधिजम् एव कर्मबन्धक्षयात् स्वचित्तस्य प्रचारसंवेदनाच् च योगी चित्तं स्वशरीरान् निष्कृष्य शरीरान्तरेषु निक्षिपति। निक्षिप्तं चित्तं चेन्द्रियाण्य् अनु पतन्ति। यथा मधुकरराजानं मक्षिका उत्पतन्तम् अनूत्पतन्ति निविशमानम् अनु निविशन्ते तथेन्द्रियाणि परशरीरावेशे चित्तम् अनु विधीयन्त इति।