Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt svārthasaṃyamāt puruṣajñānam

sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt svārthasaṃyamāt puruṣajñānam

YS 3.35

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

[Understanding] distinguishes between the meaning of “person” and the function of the mind which reveals knowledge of the person. Normal experience is attention which conflates one with the other.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] बुद्धिसत्त्वं प्रख्याशीलं समानसत्त्वोपनिबन्धने रजस्तमसी वशीकृत्य सत्त्वपुरुषान्यताप्रत्ययेन परिणतम्। तस्माच् च सत्त्वात् परिणामिनोऽत्यन्तविधर्मा विशुद्धोऽन्यश् चितिमात्ररूपः पुरुषः। तयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः पुरुषस्य दर्शितविषयत्वात् स भोगप्रत्ययः सत्त्वस्य परार्थत्वाद् दृश्यः। यस् तु तस्माद् विशिष्टश् चितिमात्ररूपोऽन्यः पौरुषेयः प्रत्ययस् तत्र संयमात् पुरुषविषया प्रज्ञा जायते। न च पुरुषप्रत्ययेन बुद्धिसत्त्वात्मना पुरुषो दृश्यते पुरुष एव तं प्रत्ययं स्वात्मावलम्बनं पश्यति तथा ह्य् उक्तम् --- "विज्ञातारम् अरे केन विजानीयात्" इति।