Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

bhuvanajñānaṃ sūrye saṃyamāt

bhuvanajñānaṃ sūrye saṃyamāt

YS 3.26

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

[Just as] the sun reveals the earth

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] तत्प्रस्तारः सप्त लोकाः। तत्रावीचेः प्रभृति मेरुपृष्ठं यावद् इत्य् एवं भूर्लोकः। मेरुपृष्ठाद् आरभ्य --- आध्रुवाद् ग्रहनक्षत्रताराविचित्रोऽन्तरिक्षलोकः। ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस् तृतीयो लोकः। चतुर्थः प्राजापत्यो महर्लोकः। त्रिविधो ब्राह्मः तद्यथा --- जनलोकस् तपोलोकः सत्यलोक इति। "ब्राह्मस् त्रिभूमिको लोक प्राजापत्यस् ततो महान् / माहेन्द्रश् च स्वर् इत्य् उक्तो दिवि तारा भुवि प्रजाः //" इति संग्रहश्लोकः। तत्रावीचेर् उपर्य् उपरि निविष्टाः षण्महानरकभूमयो घनसलिलानलानिलाकाशतमःप्रतिष्ठा महाकालाम्बरीषरौरवमहारौरवकालसूत्रान्धतामिस्राः। यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः कष्टम् आयुर् दीर्घम् आक्षिप्य जायन्ते। ततो महातलरसातलातलसुतलवितलतलातलपातालाख्यानि सप्त पातालानि। भूमिर् इयम् अष्टमी सप्तद्वीपा वसुमती, यस्याः सुमेरुर् मध्ये पर्वतराजः काञ्चनः। तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि। तत्र वैदूर्यप्रभानुरागान् नीलोत्पलपत्रश्यामो नभसो दक्षिणो भागः, श्वेतः पूर्वः, स्वच्छः पश्चिमः, कुरण्टकाभ उत्तरः। दक्षिणपार्श्वे चास्य जम्बूर् यतोऽयं जम्बूद्वीपः। तस्य सूर्यप्रचाराद् रात्रिंदिवं लग्नम् इव वर्तते। तस्य नीलश्वेतशृङ्गवन्त उदीचीनास् त्रयः पर्वता द्विसाहस्रायामाः। तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि रमणकं हिरण्मयम् उत्तराः कुरव इति। निषधहेमकूटहिमशैला दक्षिणतो द्विसाहस्रायामाः। तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाहस्राणि हरिवर्षं किंपुरुषं भारतम् इति। सुमेरोः प्राचीना भद्राश्वमाल्यवत्सीमानः प्रतीचीनाः केतुमाला गन्धमादनसीमानः। मध्ये वर्षमिलावृतम्। तद् एतद् योजनशतसाहस्रं सुमेरोर् दिशिदिशि तदर्धेन व्यूढम्। स खल्व् अयं शतसाहस्रायामो जम्बूद्वीपस् ततो द्विगुणेन लवणोदधिना वलयाकृतिना वेष्टितः। ततश् च द्विगुणा द्विगुणाः शाककुशक्रौञ्चशाल्मलगोमेध(प्लक्ष) पुष्करद्वीपाः, समुद्राश् च सर्षपराशिकल्पाः सविचित्रशैलावतंसा इक्षुरससुरासर्पिर्दधिमण्डक्षीरस्वादूदकाः। सप्त समुद्रपरिवेष्टिता वलयाकृतयो लोकालोकपर्वतपरिवाराः पञ्चाशद् योजनकोटिपरिसंख्याताः। तद् एतत् सर्वं सुप्रतिष्ठितसंस्थानमण्डमध्ये व्यूढम्। अण्डं च प्रधानस्याणुर् अवयवो यथाकाशे खद्योत इति। तत्र पाताले जलधौ पर्वतेष्व् एतेषु देवनिकाया असुरगन्धर्वकिंनरकिंपुरुषयक्षराक्षसभूतप्रेतपिशाचापस्मारकाप्सरोब्रह्मराक्षसकूष्माण्डविनायकाः प्रतिवसन्ति। सर्वेषु द्वीपेषु पुण्यात्मानो देवमनुष्याः। सुमेरुस् त्रिदशानाम् उद्यानभूमिः तत्र मिश्रवनं नन्दनं चैत्ररथं सुमानसम् इत्य् उद्यानानि। सुधर्मा देवसभा सुदर्शनं पुरम्। वैजयन्तः प्रासादः। ग्रहनक्षत्रतारकास् तु ध्रुवे निबद्धा वायुविक्षेपनियमेनोपलक्षितप्रचाराः सुमेरोर् उपर्य् उपरि संनिविष्टा दिवि विपरिवर्तन्ते। माहेन्द्रनिवासिनः षड्देवनिकायाः --- त्रिदशा अग्निष्वात्ता याम्यास् तुषिता अपरिनिर्मितवशवर्तिनः परिनिर्मितवशवर्तिनश् चेति। सर्वे संकल्पसिद्धा अणिमाद्यैश्वर्योपपन्नाः कल्पायुषो वृन्दारकाः कामभोगिन औपपादिकदेहा उत्तमानुकूलाभिर् अप्सरोभिः कृतपरिचाराः। महति लोके प्राजापत्ये पञ्चविधो देवनिकायः --- कुमुदा ऋभवः प्रतर्दना अञ्जनाभाः प्रचिताभा इति। एते महाभूतवशिनो ध्यानाहाराः कल्पसहस्रायुषः। प्रथमे ब्रह्मणो जनलोके चतुर्विधो देवनिकायो ब्रह्मपुरोहिता ब्रह्मकायिका ब्रह्ममहाकायिका अमरा इति। ते भूतेन्द्रियवशिनो द्विगुणद्विगुणोत्तरायुञः। द्वितीये तपसि लोके त्रिविधो देवनिकायः --- आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति। ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्विगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वम् अप्रतिहतज्ञाना अधरभूमिष्व् अनावृतज्ञानविषयाः। तृतीये ब्रह्मणः सत्यलोके चत्वारो देवनिकाया अकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरिस्थिताः प्रधानवशिनो यावत् सर्गायुषः। तत्राच्युताः सवितर्कध्यानसुखाः, शुद्धनिवासाः सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, संज्ञासंज्ञिनश् चास्मितामात्रध्यानसुखाः। तेऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति। त एते सप्त लोकाः सर्व एव ब्रह्मलोकाः। विदेहप्रकृतिलयास् तु मोक्षपदे वर्तन्त इति न लोकमध्ये न्यस्ता इति। एतद् योगिना साक्षात्करणीयं सूर्यद्वारे संयमं कृत्वा, ततोऽन्यत्रापि एवं तावद् अभ्यसेद् यावद् इदं सर्वं दृष्टम् इति।