Loving-kindness, etc are [also] powers.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
maitryādiṣu balāni
maitryādiṣu balāni
YS 3.23
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] मैत्री करुणा मुदितेति तिस्रो भावनास् तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते। दुःखितेषु करुणां भावयित्वा करुणाबलं लभते। पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते। भावनातः समाधिर् यः स संयमस् ततो बलान्य् अवन्ध्यवीर्याणि जायन्ते। पापशीलेषूपेक्षा न तु भावना। ततश् च तस्यां नास्ति समाधिर् इत्य् अतो न बलम् उपेक्षातस् तत्र संयमाभावाद् इति।