Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

maitryādiṣu balāni

maitryādiṣu balāni

YS 3.23

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Loving-kindness, etc are [also] powers.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] मैत्री करुणा मुदितेति तिस्रो भावनास् तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीबलं लभते। दुःखितेषु करुणां भावयित्वा करुणाबलं लभते। पुण्यशीलेषु मुदितां भावयित्वा मुदिताबलं लभते। भावनातः समाधिर् यः स संयमस् ततो बलान्य् अवन्ध्यवीर्याणि जायन्ते। पापशीलेषूपेक्षा न तु भावना। ततश् च तस्यां नास्ति समाधिर् इत्य् अतो न बलम् उपेक्षातस् तत्र संयमाभावाद् इति।