Knowing ripe and unripe karma—or [reading] the signs—reveals how things end.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā
sopakramaṃ nirupakramaṃ ca karma tatsaṃyamād aparāntajñānam ariṣṭebhyo vā
YS 3.22
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] आयुर्विपाकं कर्म द्विविधं सोपक्रमं निरुपक्रमं च। तत्र यथार्द्रं वस्त्रं वितानितं लघीयसा कालेन शुष्येत् तथा सोपक्रमम्। यथा च तद् एव संपिण्डितं चिरेण संशुष्येद् एवं निरुपक्रमम्। यथा वाग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेत् तथा सोपक्रमम्। यथा वा स एवाग्निस् तृणराशौ क्रमशोऽवयवेषु न्यस्तश् चिरेण दहेत् तथा निरुपक्रमम्। तदैकभविकम् आयुष्करं कर्म द्विविधं सोपक्रमं निरुपक्रमं च। तत्संयमाद् अपरान्तस्य प्रायणस्य ज्ञानम्। अरिष्टेभ्यो वेति त्रिविधम् अरिष्टम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकं चेति। तत्राध्यात्मिकं घोषं स्वदेहे पिहितकर्णो न शृणोति, ज्योतिर् वा नेत्रेऽवष्टब्धे न पश्यति। तथाधिभौतिकं यमपुरुषान् पश्यति, पितॄन् अतीतान् अकस्मात् पश्यति। तथाधिदैविकं स्वर्गम् अकस्मात् सिद्धान् वा पश्यति। विपरीतं वा सर्वम् इति अनेन वा जानात्य् अपरान्तम् उपस्थितम् इति।