Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

saṃskārasākṣātkaraṇāt pūrvajātijñānam

saṃskārasākṣātkaraṇāt pūrvajātijñānam

YS 3.18

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Through the direct perception of the mind-stream, [the yogin can gain] knowledge of [their] past lives

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] द्वये खल्व् अमी संस्काराः स्मृतिक्लेशहेतवो वासनारूपा विपाकहेतवो धर्माधर्मरूपाः। ते पूर्वभवाभिसंस्कृताः परिणामचेष्टानिरोधशक्तिजीवनधर्मवद् अपरिदृष्टाश् चित्तधर्माः। तेषु संयमः संस्कारसाक्षात्क्रियायै समर्थः। न च देशकालनिमित्तानुभवैर् विना तेषाम् अस्ति साक्षात्करणम्। तद् इत्थं संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् उत्पद्यते योगिनः। परत्राप्य् एवम् एव संस्कारसाक्षात्करणात् परजातिसंवेदनम्। अत्रेदम् आख्यानं श्रूयते --- भगवतो जैगीषव्यस्य संस्कारसाक्षात्करणाद् दशसु महासर्गेषु जन्मपरिणामक्रमम् अनुपश्यतो विवेकजं ज्ञानं प्रादुरभूत्। अथ भगवान् आवट्यस् तनुधरस् तम् उवाच --- दशसु महासर्गेषु भव्यत्वाद् अनभिभूतबुद्धिसत्त्वेन त्वया नरकतिर्यग्गर्भसंभवं दुःखं संपश्यता देवमनुष्येषु पुनः पुनर् उत्पद्यमानेन सुखदुःखयोः किम् अधिकम् उपलब्धम् इति। भगवन्तम् आवट्यं जैगीषव्य उवाच। दशसु महासर्गेषु भव्यत्वाद् अनभिभूतबुद्धिसत्त्वेन मया नरकतिर्यग्भवंदुःखं संपश्यता देवमनुष्येषु पुनः पुनर् उत्पद्यमानेन यत् किंचिद् अनुभूतं तत् सर्वं दुःखम् एव प्रत्यवैमि। भगवान् आवट्य उवाच। यद् इदम् आयुष्मतः प्रधानवशित्वम् अनुत्तमं च संतोषसुखं किम् इदम् अपि दुःखपक्षे निक्षिप्तम् इति। भवगाञ् जैगीषव्य उवाच --- विषयसुखापेक्षयैवेदम् अनुत्तमं संतोषसुखम् उक्तम्। कैवल्यसुखापेक्षया दुःखम् एव। बुद्धिसत्त्वस्यायं धर्मस् त्रिगुणस् त्रिगुणश् च प्रत्ययो हेयपक्षे न्यस्त इति। दुःखरूपस् तृष्णातन्तुः। तृष्णादुःखसंतापापगमात् तु प्रसन्नम् अबाधं सर्वानुकूलं सुखम् इदम् उक्तम् इति।