Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam

śabdārthapratyayānām itaretarādhyāsāt saṃkaras tatpravibhāgasaṃyamāt sarvabhūtarutajñānam

YS 3.17

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Attending to words and confusing them with meaning is [delusional] mental activity. Discerning this difference reveals the nature of all the world's languages.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] तत्र वाग्वर्णेष्व् एवार्थवती। श्रोत्रं च ध्वनिपरिणाममात्रविषयम्। पदं पुनर् नादानुसंहारबुद्धिनिर्ग्राह्यम् इति। वर्णा एकसमयासंभवित्वात् परस्परनिरनुग्रहात्मानस् ते पदम् असंस्पृश्यानुपस्थाप्याविर्भूतास् तिरोभूताश् चेति प्रत्येकम् अपदस्वरूपा उच्यन्ते। वर्णः पुनर् एकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सहकारिवर्णान्तरप्रतियोगित्वाद् वैश्वरूप्यम् इवापन्नः पूर्वश् चोत्तरेणोत्तरश् च पूर्वेण विशेषेऽवस्थापित इत्य् एवं बहवो वर्णाः क्रमानुरोधिनोऽर्थसंकेतेनावच्छिन्ना इयन्त एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तम् अर्थं द्योतयन्तीति। तद् एतेषाम् अर्थसंकेतेनावच्छिन्नानाम् उपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस् तत्पदं वाचकं वाच्यस्य संकेत्यते। तद् एकं पदम् एकबुद्धिविषय एकप्रयत्नाक्षिप्तम् अभागम् अक्रमम् अवर्णं बौद्धम् अन्त्यवर्णप्रत्ययव्यापारोपस्थापितं परत्र प्रतिपिपादयिषया वर्णैर् एवाभिधीयमानैः श्रूयमाणैश् च श्रोतृभिर् अनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्ध्या सिद्धवत्संप्रतिपत्त्या प्रतीयते। तस्य संकेतबुद्धितः प्रविभाग एतावताम् एवंजातीयकोऽनुसंहार एकस्यार्थस्य वाचक इति। संकेतस् तु पदपदार्थयोर् इतरेतराध्यासरूपः स्मृत्यात्मको योऽयं शब्दः सोऽयम् अर्थो योऽयम् अर्थः सोऽयं शब्द इति। एवम् इतरेतराध्यासरूपः संकेतो भवतीति। एवम् एते शब्दार्थप्रत्यया इतरेतराध्यासात् संकीर्णा गौर् इति शब्दो गौर् इत्य् अर्थो गौर् इति ज्ञानम्। य एषां प्रविभागज्ञः स सर्ववित्। सर्वपदेषु चास्ति वाक्यशक्तिवृक्ष इत्य् उक्तेऽस्तीति गम्यते। न सत्तां पदार्थो व्यभिचरतीति। तथा न ह्य् असाधना क्रियास्तीति। तथा च पचतीत्य् उक्ते सर्वकारकाणाम् आक्षेपो नियमार्थोऽनुवादः कर्तृकरणकर्मणां चैत्राग्नितण्डुलानाम् इति। दृष्टं च वाक्यार्थे पदरचनं श्रोत्रियश् छन्दोऽधीते, जीवति प्राणान् धारयति। तत्र वाक्ये पदार्थाभिव्यक्तिस् ततः पदं प्रविभज्य व्याकरणीयं क्रियावाचकं वा कारकवाचकं वा। अन्यथा भवत्य् अश्वोऽजापय इत्य् एवमादिषु नामाख्यातसारूप्याद् अनिर्ज्ञातं कथं क्रियायां कारके वा व्याक्रियेतेति। तेषां शब्दार्थप्रत्ययानां प्रविभागः। तद्यथा श्वेतते प्रासाद इति क्रियार्थः, श्वेतः प्रासाद इति कारकार्थः शब्दः, क्रियाकारकात्मा तदर्थः प्रत्ययश् च। कस्मात् सोऽयम् इत्य् अभिसंबन्धाद् एकाकार एव प्रत्ययः संकेत इति। यस् तु श्वेतोऽर्थः स शब्दप्रत्यययोर् आलम्बनीभूतः। स हि स्वाभिर् अवस्थाभिर् विक्रियमाणो न शब्दसहगतो न बुद्धिसहगतः। एवं शब्द एवं प्रत्ययो नेतरेतरसहगत इत्य् अन्यथा शब्दोऽन्यथार्थोऽन्यथा प्रत्यय इति विभागः। एवं तत्प्रविभागसंयमाद् योगिनः सर्वभूतरुतज्ञानं संपद्यत इति।