Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

kramānyatvaṃ pariṇāmānyatve hetuḥ

kramānyatvaṃ pariṇāmānyatve hetuḥ

YS 3.15

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Different sequences cause different changes.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] एकस्य धर्मिण एक एव परिणाम इति प्रसक्ते क्रमान्यत्वं परिणामान्यत्वे हेतुर् भवतीति। तद्यथा चूर्णमृत्पिण्डमृद्घटमृत्कपालमृत्कणमृद् इति च क्रमः। यो यस्य धर्मस्य समनन्तरो धर्मः स तस्य क्रमः। पिण्डः प्रच्यवते घट उपजायत इति धर्मपरिणामक्रमः। लक्षणपरिणामक्रमो घटस्यानागतभावाद् वर्तमानभावः क्रमः। तथा पिण्डस्य वर्तमानभावाद् अतीतभावः क्रमः। नातीतस्यास्ति क्रमः। कस्मात्। पूर्वपरतायां सत्यां समनन्तरत्वं, सा तु नास्त्य् अतीतस्य तस्माद् द्वयोर् एव लक्षणयोः क्रमः। तथावस्थापरिणामक्रमोऽपि घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते। सा च क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिम् आपद्यत इति। धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति। त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः। धर्मोऽपि धर्मी भवत्य् अन्यधर्मस्वरूपापेक्षयेति। यदा तु परमार्थतो धर्मिण्य् अभेदोपचारस् तद्द्वारेण स एवाभिधीयते धर्मस् तदायम् एकत्वेनैव क्रमः प्रत्यवभासते। चित्तस्य द्वये धर्मा परिदृष्टाश् चापरिदृष्टाश् च। तत्र प्रत्ययात्मकाः परिदृष्टा वस्तुमात्रात्मका अपरिदृष्टाः। ते च सप्तैव भवन्त्य् अनुमानेन प्रापितवस्तुमात्रसद्भावाः। "निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् / चेष्टा शक्तिश् च चित्तस्य धर्मा दर्शनवर्जिताः //" इति।