Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

śāntoditāvyapadeśyadharmānupātī dharmī

śāntoditāvyapadeśyadharmānupātī dharmī

YS 3.14

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

[Yet] the *dharma* of the three times conforms to the teachings.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] योग्यतावच्छिन्ना धर्मिणः शक्तिर् एव धर्मः। स च फलप्रसवभेदानुमित एकस्यान्योऽन्यश् च परिदृष्टः। तत्र वर्तमानः स्वव्यापारम् अनुभवन् धर्मी धर्मान्तरेभ्यः शान्तेभ्यश् चाव्यपदेश्येभ्यश् च भिद्यते। यदा तु सामान्येन समन्वागतो भवति तदा धर्मिस्वरूपमात्रत्वात् कोऽसौ केन भिद्येत। तत्र ये खलु धर्मिणो धर्माः शान्ता उदिता अव्यपदेश्याश् चेति, तत्र शान्ता ये कृत्वा व्यापारानुपरताः सव्यापारा उदितास् ते चानागतस्य लक्षणस्य समनन्तरा वर्तमानस्यानन्तरा अतीताः किमर्थम् अतीतस्यानन्तरा न भवन्ति वर्तमानाः, पूर्वपश्चिमताया अभावात्। यथानागतवर्तमानयोः पूर्वपश्चिमता नैवम् अतीतस्य। तस्मान् नातीतस्यास्ति समनन्तरः तदनागत एव समनन्तरो भवति वर्तमानस्येति। अथाव्यपदेश्याः के सर्वं सर्वात्मकम् इति। यत्रोक्तम् --- जलभूम्योः पारिणामिकं रसादिवैश्वरूप्यं स्थावरेषु दृष्टम्। तथा स्थावराणां जङ्गमेषु जङ्गमानां स्थावरेष्व् इत्य् एवं जात्यनुच्छेदेन सर्वं सर्वात्मकम् इति। देशकालाकारनिमित्तापबन्धान् न खलु समानकालम् आत्मनाम् अभिव्यक्तिर् इति। य एतेष्व् अभिव्यक्तानभिव्यक्तेषु धर्मेष्व् अनुपाती सामान्यविशेषात्मा सोऽन्वयी धर्मी। यस्य तु धर्ममात्रम् एवेदं निरन्वयं तस्य भोगाभावः। कस्मात्, अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत् कथं भोक्तृत्वेनाधिक्रियते। तत्स्मृत्यभावश् च नान्यदृष्टस्य स्मरणम् अन्यस्यास्तीति। वस्तुप्रत्यभिज्ञानाच् च स्थितोऽन्वयी धर्मी यो धर्मान्यथात्वम् अभ्युपगतः प्रत्यभिज्ञायते तस्मान् नेदं धर्ममात्रं निरन्वयम् इति।