This explains [why] the quality, character, and appearance of the [sense] objects and faculties change.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ
etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ
YS 3.13
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश् चोक्तो वेदितव्यः। तत्र व्युत्थाननिरोधयोर् अभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः। लक्षणपरिणामश् च निरोधस् त्रिलक्षणस् त्रिभिर् अध्वभिर् युक्तः। स खल्व् अनागतलक्षणम् अध्वानं प्रथमं हित्वा धर्मत्वम् अनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः। यत्रास्य स्वरूपेणाभिव्यक्तिः। एषोऽस्य द्वितीयोऽध्वा। न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः। तथा व्युत्थानं त्रिलक्षणं त्रिभिर् अध्वभिर् युक्तं वर्तमानलक्षणं हित्वा धर्मत्वम् अनतिक्रान्तम् अतीतलक्षणं प्रतिपन्नम्। एषोऽस्य तृतीयोऽध्वा। न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम्। एवं पुनर् व्युत्थानम् उपसंपद्यमानम् अनागतलक्षणं हित्वा धर्मत्वम् अनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम्। यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः एषोऽस्य द्वितीयोऽध्वा। न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तम् इति। एवं पुनर् निरोध एवं पुनर् व्युत्थानम् इति। तथावस्थापरिणामः तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति। एष धर्माणाम् अवस्थापरिणामः। तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानाम् अप्य् अवस्थाभिः परिणाम इति। एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणम् अपि गुणवृत्तम् अवतिष्ठते। चलं च गुणवृत्तम्। गुणस्वाभाव्यं तु प्रवृत्तिकारणम् उक्तं गुणानाम् इति। एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधः परिणामो वेदितव्यः। परमार्थतस् त्व् एक एव परिणामः। धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति। तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्व् अतीतानागतवर्तमानेषु भावान्यथात्वं भवति न तु द्रव्यान्यथात्वम्। यथा सुवर्णभाजनस्य भित्त्वान्यथाक्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वम् इति। अपर आह --- धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात्। पूर्वापरावस्थाभेदम् अनुपतितः कौटस्थ्येनैव परिवर्तेत यद्य् अन्वयी स्याद् इति। अयम् अदोषः। कस्मात्। एकान्ततानभ्युपगमात्। तद् एतत् त्रैलोक्यं व्यक्तेर् अपैति नित्यत्वप्रतिषेधात्। अपेतम् अप्य् अस्ति विनाशप्रतिषेधात्। संसर्गाच् चास्य सौक्ष्म्यं, सौक्ष्म्याच् चानुपलब्धिर् इति। लक्षणपरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्याम् अवियुक्तः। तथानागतोऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्याम् अवियुक्तः। तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्याम् अवियुक्त इति। यथा पुरुष एकस्यां स्त्रियां रक्तो न शेषासु विरक्तो भवतीति। अत्र लक्षणपरिणामे सर्वस्य सर्वलक्षणयोगाद् अध्वसंकरः प्राप्नोतीति परैर् दोषश् चोद्यत इति। तस्य परिहारः --- धर्माणां धर्मत्वम् अप्रसाध्यम्। सति च धर्मत्वे लक्षणभेदोऽपि वाच्यो न वर्तमानसमय एवास्य धर्मत्वम्। एवं हि न चित्तं रागधर्मकं स्यात् क्रोधकाले रागस्यासमुदाचाराद् इति। किंच त्रयाणां लक्षणानां युगपद् एकस्यां व्यक्तौ नास्ति संभवः। क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेद् इति। उक्तं च रूपातिशया वृत्त्यतिशयाश् च विरुध्यन्ते, सामान्यानि त्व् अतिशयैः सह प्रवर्तन्ते। तस्माद् असंकरः यथा रागस्यैव क्वचित् समुदाचार इति न तदानीम् अन्यत्राभावः, किंतु केवलं सामान्येन समन्वागत इत्य् अस्ति तदा तत्र तस्य भावः तथा लक्षणस्येति। न धर्मी त्र्यध्वा धर्मास् तु त्र्यध्वानस् ते लक्षिता अलक्षितास् तत्र लक्षितास् तां ताम् अवस्थां प्राप्नुवन्तोऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः। यथैका रेखा शतस्थाने शतं दशस्थाने दशैका चैकस्थाने यथा चैकत्वेऽपि स्त्री माता चोच्यते दुहिता च स्वसा चेति। अवस्थापरिणामे कौटस्थ्यप्रसङ्गदोषः कैश्चिद् उक्तः। कथम्। अध्वनो व्यापारेण व्यवहितत्वात्। यदा धर्मः स्वव्यापारं न करोति तदानागतो यदा करोति तदा वर्तमानो यदा कृत्वा निवृत्तस् तदातीत इत्य् एवं धर्मधर्मिणोर् लक्षणानाम् अवस्थानां च कौटस्थ्यं प्राप्नोतीति परैर् दोष उच्यते। नासौ दोषः। कस्मात्। गुणिनित्यत्वेऽपि गुणानां विमर्दवैचित्र्यात्। यथा संस्थानम् आदिमद् धर्ममात्रं शब्दादीनां गुणानां विनाश्यविनाशिनाम् एवं लिङ्गम् आदिमद् धर्ममात्रं सत्त्वादीनां गुणानां विनाश्यविनाशिना तस्मिन् विकारसंज्ञेति। तत्रेदम् उदाहरणं मृद्धर्मी पिण्डाकाराद् धर्माद् धर्मान्तरम् उपसंपद्यमानो धर्मतः परिणमते घटाकार इति। घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणमते। घटो नवपुराणतां प्रतिक्षणम् अनुभवन्न् अवस्थापरिणामं प्रतिपद्यत इति। धर्मिणोऽपि धर्मान्तरम् अवस्था धर्मस्यापि लक्षणान्तरम् अवस्थेत्य् एक एव द्रव्यपरिणामो भेदेनोपदर्शित इति। एवं पदार्थान्तरेष्व् अपि योज्यम् इति। त एते धर्मलक्षणावस्थापरिणामा धर्मिस्वरूपम् अनतिक्रान्ता इत्य् एक एव परिणामः सर्वान् अमून् विशेषान् अभिप्लवते। अथ कोऽयं परिणामः.अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणाम इति।