The fading away of all objectives and the arising of one-pointedness is the change-of-heart called *samādhi*.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ
YS 3.11
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] सर्वार्थता चित्तधर्मः। एकाग्रतापि चित्तधर्मः। सर्वार्थतायाः क्षयस् तिरोभाव इत्य् अर्थः। एकाग्रताया उदय आविर्भाव इत्य् अर्थः। तयोर् धर्मित्वेनानुगतं चित्तं, तद् इदं चित्तम् अपायोपजनयोः स्वात्मभूतयोर् धर्मयोर् अनुगतं समाधीयते स चित्तस्य समाधिपरिणामः।