Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

śabdajñānānupātī vastuśūnyo vikalpaḥ

śabdajñānānupātī vastuśūnyo vikalpaḥ

YS 1.9

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Conceptualization isn't objective, following on from [mere] verbal knowledge.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] स न प्रमाणोपारोही। न विपर्ययोपारोही च। वस्तुशून्यत्वेऽपि शब्दज्ञानमाहात्म्यनिबन्धनो व्यवहारो दृश्यते। तद् यथा चैतन्यं पुरुषस्य स्वरूपम् इति। यदा चितिर् एव पुरुषस् तदा किम् अत्र केन व्यपदिश्यते। भवति च व्यपदेशे वृत्तिः। यथा चैत्रस्य गौर् इति। तथा प्रतिषिद्धवस्तुधर्मो निष्क्रियः पुरुषः, तिष्ठति बाणः स्थास्यति स्थित इति। गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। तथानुत्पत्तिधर्मा पुरुष इति, उत्पत्तिधर्मस्याभावमात्रम् अवगम्यते न पुरुषान्वयी धर्मः। तस्माद् विकल्पितः स धर्मस् तेन चास्ति व्यवहार इति।