Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

viparyayo mithyājñānam atadrūpapratiṣṭham

viparyayo mithyājñānam atadrūpapratiṣṭham

YS 1.8

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Aversion is a false knowing, not materially established.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] स कस्मान् न प्रमाणम्। यतः प्रमाणेन बाध्यते। भूतार्थविषयत्वात् प्रमाणस्य। तत्र प्रमाणेन बाधनम् अप्रमाणस्य दृष्टम्। तद्यथा द्विचन्द्रदर्शनं सद्विषयेणैकचन्द्रदर्शनेन बाध्यत इति। सेयं पञ्चपर्वा भवत्य् अविद्या। अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशा इति। एत एव स्वसंज्ञाभिस् तमो मोहो महामोहस् तामिस्रोऽन्धतामिस्र इति। एते चित्तमलप्रसङ्गेनाभिधास्यन्ते।