Grasping [can be based on] attention, inference, or hearsay.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
pratyakṣānumānāgamāḥ pramāṇāni
pratyakṣānumānāgamāḥ pramāṇāni
YS 1.7
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम्। फलम् अविशिष्टः पौरुषेयश् चित्तवृत्तिबोधः। प्रतिसंवेदी पुरुष इत्य् उपरिष्टाद् उपपादयिष्यामः। अनुमेयस्य तुल्यजातीयेष्व् अनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः संबन्धो यस् तद्विषया सामान्यावधारणप्रधाना वृत्तिर् अनुमानम्। यथा देशान्तरप्राप्तेर् गतिमच् चन्द्रतारकं चैत्रवत्, विन्ध्यश् चाप्राप्तिर् अगतिः। आप्तेन दृष्टोऽनुमितो वार्थः परत्र स्वबोधसंक्रान्तये शब्देनोपदिश्यते, शब्दात् तदर्थविषया वृत्तिः श्रोतुर् आगमः। यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते। मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात्।