Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ

tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ

YS 1.51

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

With the cessation of even that, all ceases. This is the seedless *samādhi*.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानाम् अपि संस्काराणां प्रतिबन्धी भवति। कस्मात्, निरोधजः संस्कारः समाधिजान् संस्कारान् बाधत इति। निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारास्तित्वम् अनुमेयम्। व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयैः संस्कारैश् चित्तं स्वस्यां प्रकृताव् अवस्थितायां प्रविलीयते। तस्मात् ते संस्काराश् चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति। यस्माद् अवसिताधिकारं सह कैवल्यभागीयैः संस्कारैश् चित्तं निवर्तते, तस्मिन् निवृत्ते पुरुषः स्वरूपमात्रप्रतिष्ठोऽतः शुद्धः केवलो मुक्त इत्य् उच्यत इति।