The [mental] activity born from that [absorption], [temporarily] obstructs other activity.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
tajjaḥ saṃskāro 'nyasaṃskārapratibandhī
tajjaḥ saṃskāro 'nyasaṃskārapratibandhī
YS 1.50
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] समाधिप्रज्ञाप्रभवः संस्कारो व्युत्थानसंस्काराशयं बाधते। व्युत्थानसंस्काराभिभवात् तत्प्रभवाः प्रत्यया न भवन्ति। प्रत्ययनिरोधे समाधिर् उपतिष्ठते। ततः समाधिजा प्रज्ञा, ततः प्रज्ञाकृताः संस्कारा इति नवो नवः संस्काराशयो जायते। ततश् च प्रज्ञा, ततश् च संस्कारा इति। कथम् असौ संस्कारातिशयश् चित्तं साधिकारं न करिष्यतीति। न ते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वाच् चित्तम् अधिकारविशिष्टं कुर्वन्ति। चित्तं हि ते स्वकार्याद् अवसादयन्ति। ख्यातिपर्यवसानं हि चित्तचेष्टितम् इति।