There are five whirlings, defiled and not:
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ
vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ
YS 1.5
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] क्लेशहेतुकाः कर्माशयप्रचये क्षेत्रीभूताः क्लिष्टाः। ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः। क्लिष्टप्रवाहपतिता अप्य् अक्लिष्टाः। क्लिष्टच्छिद्रेष्व् अप्य् अक्लिष्टा भवन्ति। अक्लिष्टच्छिदेषु क्लिष्टा इति। तथाजातीयकाः संस्कारा वृत्तिभिर् एव क्रियन्ते। संस्कारैश् च वृत्तय इति। एवं वृत्तिसंस्कारचक्रम् अनिशम् आवर्तते। तद् एवंभूतं चित्तम् अवसिताधिकारम् आत्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति। ताः क्लिष्टाश् चाक्लिष्टाश् च पञ्चधा वृत्तयः।