[Truths] which have been heard, inferred, or discerned are different things, [and have] different functions.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt
śrutānumānaprajñābhyām anyaviṣayā viśeṣārthatvāt
YS 1.49
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] श्रुतम् आगमविज्ञानं तत् सामान्यविषयम्। न ह्य् आगमेन शक्यो विशेषोऽभिधातुम्, कस्मात्, न हि विशेषेण कृतसंकेतः शब्द इति। तथानुमानं सामान्यविषयम् एव। यत्र प्राप्तिस् तत्र गतिर् यत्राप्राप्तिस् तत्र न भवति गतिर् इत्य् उक्तम्। अनुमानेन च सामान्येनोपसंहारः। तस्माच् छ्रुतानुमानविषयो न विशेषः कश्चिद् अस्तीति। न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकप्रत्यक्षेण ग्रहणम् अस्ति। न चास्य विशेषस्याप्रमाणकस्याभावोऽस्तीति समाधिप्रज्ञानिर्ग्राह्य एव स विशेषो भवति भूतसूक्ष्मगतो वा पुरुषगतो वा। तस्माच् छ्रुतानुमानप्रज्ञाभ्याम् अन्यविषया सा प्रज्ञा विशेषार्थत्वाद् इति।