Truth born this way is discerning.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
ṛtaṃbharā tatra prajñā
ṛtaṃbharā tatra prajñā
YS 1.48
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] तस्मिन् समाहितचित्तस्य या प्रज्ञा जायते तस्या ऋतंभरेति संज्ञा भवति। अन्वर्था च सा, सत्यम् एव बिभर्ति न च तत्र विपर्यासज्ञानगन्धोऽप्य् अस्तीति। तथा चोक्तम् --- "आगमेनानुमानेन ध्यानाभ्यासरसेन च / त्रिधा प्रकल्पयन् प्रज्ञां लभते योगम् उत्तमम्" इति।