Thoughtless clarity is the heart of religiousity.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
nirvicāravaiśāradye 'dhyātmaprasādaḥ
nirvicāravaiśāradye 'dhyātmaprasādaḥ
YS 1.47
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] अशुद्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्तमोभ्याम् अनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यम्। यदा निर्विचारस्य समाधेर् वैशारद्यम् इदं जायते तदा योगिनो भवत्य् अध्यात्मप्रसादो भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः। तथा चोक्तम् --- "प्रज्ञाप्रसादम् आरुह्य अशोच्यः शोचतो जनान् / भूमिष्ठान् इव शैलस्थः सर्वान् प्राज्ञोऽनुपश्यति"।