Even subtle “thingness” itself terminates in the featureless [absorptions].
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam
sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam
YS 1.45
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] पार्थिवस्याणोर् गन्धतन्मात्रं सूक्ष्मो विषयः। आप्यस्य रसतन्मात्रम्। तैजसस्य रूपतन्मात्रम्। वायवीयस्य स्पर्शतन्मात्रम्। आकाशस्य शब्दतन्मात्रम् इति। तेषाम् अहंकारः। अस्यापि लिङ्गमात्रं सूक्ष्मो विषयः। लिङ्गमात्रस्याप्य् अलिङ्गं सूक्ष्मो विषयः। न चालिङ्गात् परं सूक्ष्मम् अस्ति। नन्व् अस्ति पुरुषः सूक्ष्म इति सत्यम्। यथा लिङ्गात् परम् अलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य। किंतु, लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस् तु भवतीति। अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम्।