Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā

etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā

YS 1.44

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

This also explains the subtle things [about *samādhi*] with and without thought.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] तत्र भूतसूक्ष्मकेष्व् अभिव्यक्तधर्मकेषु देशकालनिमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्य् उच्यते। तत्राप्य् एकबुद्धिनिर्ग्राह्यम् एवोदितधर्मविशिष्टं भूतसूक्ष्मम् आलम्बनीभूतं समाधिप्रज्ञायाम् उपतिष्ठते। या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्मानवच्छिन्नेषु सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्य् उच्यते। एवंस्वरूपं हि तद्भूतसूक्ष्मम् एतेनैव स्वरूपेणालम्बनीभूतम् एव समाधिप्रज्ञास्वरूपम् उपरञ्जयति। प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारेत्य् उच्यते। तत्र महद्वस्तुविषया सवितर्का निर्वितर्का च, सूक्ष्मवस्तुविषया सविचारा निर्विचारा च। एवम् उभयोर् एतयैव निर्वितर्कया विकल्पहानिर् व्याख्यातेति।