Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā

smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā

YS 1.43

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

With the purification of mindfulness, [the mind] appears to be empty except for the object shining forth effortlessly.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] या शब्दसंकेतश्रुतानुमानज्ञानविकल्पस्मृतिपरिशुद्धौ ग्राह्यस्वरूप.उपरक्ता प्रज्ञा स्वम् इव प्रज्ञास्वरूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपापन्नेव भवति सा तदा निर्वितर्का समापत्तिः। तथा च व्याक्यातं तस्या एकबुद्ध्युपक्रमो ह्य् अर्थात्माणुप्रचयविशेषात्मा गवादिर् घटादिर् वा लोकः। स च संस्थानविशेषो भूतसूक्ष्माणां साधारणो धर्म आत्मभूतः फलेन व्यक्तेनानुमितः स्वव्यञ्जकाञ्जनः प्रादुर्भवति। धर्मान्तरस्य कपालादेर् उदये च तिरोभवति। स एष धर्मोऽवयवीत्य् उच्यते। योऽसाव् एकश् च महांश् चाणींयश् च स्पर्शवांश् च क्रियाधर्मकश् चानित्यश् च तेनावयविना व्यवहाराः क्रियन्ते। यस्य पुनर् अवस्तुकः स प्रचयविशेषः। सूक्ष्मं च कारणम् अनुपलभ्यम् अविकल्पस्य तस्यावयव्यभावाद् अतद्रूपप्रतिष्ठं मिथ्याज्ञानम् इति प्रायेण सर्वम् एव प्राप्तं मिथ्याज्ञानम् इति। तदा च सम्यग्ज्ञानम् अपि किं स्याद् विषयाभावात्। यद् यद् उपलभ्यते तत् तद् अवयवित्वेनाम्नातम्। तस्माद् अस्त्य् अवयवी यो महत्त्वादिव्यवहारापन्नः समापत्तेर् निर्वितर्काया विषयी भवति।