Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ

tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ

YS 1.42

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

In that [state of] unification with effort, [there is still] sound, meaning, knowledge, and conceptualization.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] तद्यथा गौर् इति शब्दो गौर् इत्य् अर्थो गौर् इति ज्ञानम् इत्य् अविभागेन विभक्तानाम् अपि ग्रहणं दृष्टम्। विभज्यमानाश् चान्ये शब्दधर्मा अन्येऽर्थधर्मा अन्ये विज्ञानधर्मा इत्य् एतेषां विभक्तः पन्थाः। तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच् छब्दार्थज्ञानविकल्पानुविद्ध उपावर्तते सा संकीर्णा समापत्तिः सवितर्केत्य् उच्यते।