Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

viśokā vā jyotiṣmatī

viśokā vā jyotiṣmatī

YS 1.36

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Or which is painless and enlightening

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनीत्य् अनुवर्तते। हृदयपुण्डरीके धारयतो या बुद्धिसंवित्, बुद्धिसत्त्वं हि भास्वरम् आकाशकल्पं, तत्र स्थितिवैशारद्यात् प्रवृत्तिः सूर्येन्दुग्रहमणिप्रभारूपाकारेण विकल्पते। तथास्मितायां समापन्नं चित्तं निस्तरङ्गमहोदधिकल्पं शान्तम् अनन्तम् अस्मितामात्रं भवति। यत्रेदम् उक्तम् --- "तम् अणुमात्रम् आत्मानम् अनुविद्यास्मीत्य् एवं तावत् संप्रजानीते" इति। एषा द्वयी विशोका विषयवती, अस्मितामात्रा च प्रवृत्तिर् ज्योतिष्मतीत्य् उच्यते। यया योगिनश् चित्तं स्थितिपदं लभत इति।