Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī

viṣayavatī vā pravṛttir utpannā manasaḥ sthitinibandhanī

YS 1.35

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Or something which arises out of experience and arrests the mind.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] नासिकाग्रे धारयतोऽस्य या दिव्यगन्धसंवित् सा गन्धप्रवृत्तिः। जिह्वाग्रे रससंवित्। तालुनि रूपसंवित्। जिह्वामध्ये स्पर्शसंवित्। जिह्वामूले शब्दसंविद् इत्य् एता वृत्तय उत्पन्नाश् चित्तं स्थितौ निबध्नन्ति, संशयं विधमन्ति, समाधिप्रज्ञायां च द्वारीभवन्तीति। एतेन चन्द्रादित्यग्रहमणिप्रदीपरश्म्यादिषु प्रवृत्तिर् उत्पन्ना विषयवत्य् एव वेदितव्या यद्य् अपि हि तत्तच्छास्त्रानुमानाचार्योपदेशैर् अवगतम् अर्थतत्त्वं सद्भूतम् एव भवति। एतेषां यथाभूतार्थप्रतिपादनसामर्थ्यात्, तथापि यावद् एकदेशोऽपि कश्चिन् न स्वकरणसंवेद्यो भवति तावत् सर्वं परोक्षम् इवापवर्गादिषु सूक्ष्मेष्व् अर्थेषु न दृढां बुद्धिम् उत्पादयति। तस्माच् छास्त्रानुमानाचार्योपदेशोपोद्बलनार्थम् एवावश्यं कश्चिद् अर्थविशेषः प्रत्यक्षीकर्तव्यः। तत्र तदुपदिष्टार्थैकदेशप्रत्यक्षत्वे सति सर्वं सूक्ष्मविषयम् अपि आपवर्गाच् छ्रद्धीयते। एतदर्थम् एवेदं चित्तपरिकर्म निर्दिश्यते। अनियतासु वृत्तिषु तद्विषयायां वशीकारसंज्ञायाम् उपजातायां समर्थं स्यात् तस्य तस्यार्थस्य प्रत्यक्षीकरणायेति। तथा च सति श्रद्धावीर्यस्मृतिसमाधयोऽस्याप्रतिबन्धेन भविष्यन्तीति।