The treatment is single-object practice.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
tat-pratiṣedhārtham eka-tattvābhyāsaḥ
tat-pratiṣedhārtham eka-tattvābhyāsaḥ
YS 1.32
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] विक्षेपप्रतिषेधार्थम् एकतत्त्वावलम्बनं चित्तम् अभ्यसेत्। यस्य तु प्रत्यर्थनियतं प्रत्ययमात्रं क्षणिकं च चित्तं तस्य सर्वम् एव चित्तम् एकाग्रं नास्त्य् एव विक्षिप्तम्। यदि पुनर् इदं सर्वतः प्रत्याहृत्यैकस्मिन्न् अर्थे समाधीयते तदा भवत्य् एकाग्रम् इत्य् अतो न प्रत्यर्थनियतम्। योऽपि सदृशप्रत्ययप्रवाहेन चित्तम् एकाग्रं मन्यते तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस् तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात्। अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः, स सर्वः सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा प्रत्यर्थनियतत्वाद् एकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः। तस्माद् एकम् अनेकार्थम् अवस्थितं चित्तम् इति। यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन्न् अथ कथम् अन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत्। अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत्। कथंचित् समाधीयमानम् अप्य् एतद् गोमयपायसीयन्यायम् आक्षिपति। किं च स्वात्मानुभवापह्नवश् चित्तस्यान्यत्वे प्राप्नोति। कथम्, यद् अहम् अद्राक्षं तत् स्पृशामि यच् चास्प्राक्षं तत् पश्यामीत्य् अहम् इति प्रत्ययः सर्वस्य प्रत्ययस्य भेदे सति प्रत्ययिन्य् अभेदेनोपस्थितः। एकप्रत्ययविषयोऽयम् अभेदात्माहम् इति प्रत्ययः कथम् अत्यन्तभिन्नेषु चित्तेषु वर्तमानः सामान्यम् एकं प्रत्ययिनम् आश्रयेत्। स्वानुभवग्राह्यश् चायम् अभेदात्माहम् इति प्रत्ययः। न च प्रत्यक्षस्य माहात्म्यं प्रमाणान्तरेणाभिभूयते। प्रमाणान्तरं च प्रत्यक्षबलेनैव व्यवहारं लभते। तस्माद् एकम् अनेकार्थम् अवस्थितं च चित्तम्।