Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

duḥkha daurmanasyāṅgame jayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ

duḥkha daurmanasyāṅgame jayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ

YS 1.31

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

The symptoms of anxiety are stress, depression, tremors in the limbs, and difficulty breathing.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] दुःखम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकं च। येनाभिहताः प्राणिनस् तदपघाताय प्रयतन्ते तद् दुःखम्। दौर्मनस्यम् इच्छाविघाताच् चेतसः क्षोभः। यद् अङ्गान्य् एजयति कम्पयति तद् अङ्गमेजयत्वम्। प्राणो यद् बाह्यं वायुम् आचामति स श्वासः। यत् कौष्ठ्यं वायुं निःसारयति स प्रश्वासः। एते विक्षेपसहभुवो विक्षिप्तचित्तस्यैते भवन्ति। समाहितचित्तस्यैते न भवन्ति।