Disease, torpor, doubt, carelessness, sloth, compulsion, confusion, seeing the unobtained, instability in the foundation, [and] an anxious *citta*: these are the obstacles.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
vyādhi styāna saṃśaya pramādālasyāvirati bhrānti darśanālabdha bhūmikatvānavasthitatvāni citta-vikṣepās te 'ntarāyāḥ
vyādhi styāna saṃśaya pramādālasyāvirati bhrānti darśanālabdha bhūmikatvānavasthitatvāni citta-vikṣepās te 'ntarāyāḥ
YS 1.30
Audio
Translations & commentaries(2)
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] नवान्तरायाश् चित्तस्य विक्षेपाः। सहैते चित्तवृत्तिभिर् भवन्ति। एतेषाम् अभावे न भवन्ति पूर्वोक्ताश् चित्तवृत्तयः। व्याधिर् धातुरसकरणवैषम्यम्। स्त्यानम् अकर्मण्यता चित्तस्य। संशय उभयकोटिस्पृग् विज्ञानं स्याद् इदम् एवं नैवं स्याद् इति। प्रमादः समाधिसाधनानाम् अभावनम्। आलस्यं कायस्य चित्तस्य च गुरुत्वाद् अप्रवृत्तिः। अविरतिश् चित्तस्य विषयसंप्रयोगात्मा गर्धः। भ्रान्तिदर्शनं विपर्ययज्ञानम्। अलब्धभूमिकत्वं समाधिभूमेर् अलाभः। अनवस्थितत्वं यल् लब्धायां भूमौ चित्तस्याप्रतिष्ठा। समाधिप्रतिलम्भे हि सति तदवस्थितं स्याद् इति। एते चित्तविक्षेपा नव योगमला योगप्रतिपक्षा योगान्तराया इत्य् अभिधीयन्ते।