Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

तदा द्रष्टुः स्वरूपेऽवस्थानम्॥

tadā draṣṭuḥ svarūpe 'vasthānam

YS 1.3

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

Sūtra· EN

Then the Seer abides in its own true nature.

SūtraVyasa· SA

[Vyāsa Bhāṣya] स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये । व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा । कथं तर्हि ? दृशिरूपतया द्रष्ट्रा गृह्यमाणा वृत्तिसारूप्यमिवापन्ना । तदेतच्चित्तवृत्तिसारूप्यं द्रष्टुर्भोगः ।