Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

tasya vācakaḥ praṇavaḥ

tasya vācakaḥ praṇavaḥ

YS 1.27

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

His name is a [mere] vocalization.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] वाच्य ईश्वरः प्रणवस्य। किम् अस्य संकेतकृतं वाच्यवाचकत्वम् अथ प्रदीपप्रकाशवद् अवस्थितम् इति। स्थितोऽस्य वाच्यस्य वाचकेन सह संबन्धः। संकेतस् त्व् ईश्रवस्य स्थितम् एवार्थम् अभिनयति। यथावस्थितः पितृपुत्रयोः संबन्धः संकेतेनावद्योत्यते, अयम् अस्य पिता, अयम् अस्य पुत्र इति। सर्गान्तरेष्व् अपि वाच्यवाचकशक्त्यपेक्षस् तथैव संकेतः क्रियते। संप्रतिपत्तिनित्यतया नित्यः शब्दार्थसंबन्ध इत्य् आगमिनः प्रतिजानते।