Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

tatra niratiśayaṃ sarvajñabījam

tatra niratiśayaṃ sarvajñabījam

YS 1.25

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

Here is the unsurpassed seed of all there is to know.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] यद् इदम् अतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणम् अल्पं बह्व् इति सर्वज्ञबीजम् एतद् विवर्धमानं यत्र निरतिशयं स सर्वज्ञः। अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात् परिमाणवद् इति। यत्र काष्ठाप्राप्तिर् ज्ञानस्य स सर्वज्ञः। स च पुरुषविशेष इति। सामान्यमात्रोपसंहारे च कृतोपक्षयम् अनुमानं न विशेषप्रतिपत्तौ समर्थम् इति। तस्य संज्ञादिविशेषप्रतिपत्तिर् आगमतः पर्यन्वेष्या। तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनम्। ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषान् उद्धरिष्यामीति। तथा चोक्तम् --- आदिविद्वान् निर्माणचित्तम् अधिष्ठाय कारुण्याद् भगवान् परमर्षिर् आसुरये जिज्ञासमानाय तन्त्रं प्रोवाचेति।