Sant Seva ParishadSant Seva ParishadSSP · sant seva

Yoga Sutras of Patanjali

पातञ्जलयोगसूत्राणि

मूल श्लोकः

kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ

kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ

YS 1.24

Audio
Translations & commentaries(2)
Show:

Sūtra Translation

SūtraKhemarato Bhikkhu· EN

*Īśvara* is a different kind of person: untouched by defilements, *karma*, fruition, or tendency.

Bhāṣya Commentary

BhāṣyaVyasa· SA

[Vyāsa Bhāṣya] अविद्यादयः क्लेशाः। कुशलाकुशलानि कर्माणि। तत्फलं विपाकः। तदनुगुणा वासना आशयाः। ते च मनसि वर्तमानाः पुरुषे व्यपदिश्यन्ते, स हि तत्फलस्य भोक्तेति। यथा जयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते। यो ह्य् अनेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः। कैवल्यं प्राप्तास् तर्हि सन्ति च बहवः केवलिनः। ते हि त्रीणि बन्धनानि च्छित्त्वा कैवल्यं प्राप्ता ईश्वरस्य च तत्संबन्धो न भूतो न भावी। यथा मुक्तस्य पूर्वा बन्धकोटिः प्रज्ञायते नैवम् ईश्वरस्य। यथा वा प्रकृतिलीनस्योत्तरा बन्धकोटिः संभाव्यते नैवम् ईश्वरस्य। स तु सदैव मुक्तः सदैवेश्वर इति। योऽसौ प्रकृष्टसत्त्वोपादानाद् ईश्वरस्य शाश्वतिक उत्कर्षः स किं सनिमित्त आहोस्विन् निर्निमित्त इति। तस्य शास्त्रं निमित्तम्। शास्त्रं पुनः किंनिमित्तम्, प्रकृष्टसत्त्वनिमित्तम्। एतयोः शास्त्रोत्कर्षयोर् ईश्वरसत्त्वे वर्तमानयोर् अनादिः संबन्धः। एतस्माद् एतद् भवति सदैवेश्वरः सदैव मुक्त इति। तच् च तस्यैश्वर्यं साम्यातिशयविनिर्मुक्तम्। न तावद् ऐश्वर्यान्तरेण तद् अतिशय्यते। यद् एवातिशयि स्यात् तद् एव तत् स्यात्। तस्माद् यत्र काष्ठाप्राप्तिर् ऐश्वर्यस्य स ईश्वर इति। न च तत्समानम् ऐश्वर्यम् अस्ति। कस्मात्, द्वयोस् तुल्ययोर् एकस्मिन् युगपत्कामितेऽर्थे नवम् इदम् अस्तु पुराणम् इदम् अस्त्व् इत्य् एकस्य सिद्धाव् इतरस्य प्राकाम्यविघाताद् ऊनत्वं प्रसक्तम्। द्वयोश् च तुल्ययोर् युगपत्कामितार्थप्राप्तिर् नास्ति। अर्थस्य विरुद्धत्वात्। तस्माद् यस्य साम्यातिशयैर् विनिर्मुक्तम् ऐश्वर्यं स एवेश्वरः। स च पुरुषविशेष इति।