Mild, moderate, or excessive also differentiates.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ
mṛdumadhyādhimātratvāt tato 'pi viśeṣaḥ
YS 1.22
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति। ततोऽपि विशेषः। तद्विशेषाद् अपि मृदुतीव्रसंवेगस्यासन्नः ततो मध्यतीव्रसंवेगस्यासन्नतरः, तस्माद् अधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्य् आसन्नतमः समाधिलाभः समाधिफलं चेति।