The final is preceded by faith, energy, recollection, concentration, and discernment.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām
śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām
YS 1.20
Audio
Translations & commentaries(2)
Show:
Sūtra — Translation
Bhāṣya — Commentary
[Vyāsa Bhāṣya] उपायप्रत्ययो योगिनां भवति। श्रद्धा चेतसः संप्रसादः। सा हि जननीव कल्याणी योगिनं पाति। तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यम् उपजायते। समुपजातवीर्यस्य स्मृतिर् उपतिष्ठते। स्मृत्युपस्थाने च चित्तम् अनाकुलं समाधीयते। समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते। येन यथार्थं वस्तु जानाति। तदभ्यासात् तत्तद्विषयाच् च वैराग्याद् असंप्रज्ञातः समाधिर् भवति।