Yoga is the stilling of the modifications of the mind.
Yoga Sutras of Patanjali
पातञ्जलयोगसूत्राणि
मूल श्लोकः
योगश्चित्तवृत्तिनिरोधः॥
yogaś citta-vṛtti-nirodhaḥ
YS 1.2
Audio
Translations & commentaries(3)
Sūtra — Translation
[Vyāsa Bhāṣya] सर्वशब्दाग्रहणात् सम्प्रज्ञातोऽपि योग इत्याख्यायते । चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम् । प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति । तदेव तमसानुविद्धं अधर्माज्ञानावैराग्यानैश्वर्योपगं भवति । तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति । तदेव रजोलेशमलापेतं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेघध्यानोपगं भवति । तत् परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः । चितिशक्तिरपरिणामिन्यप्रतिसंक्रमा दर्शितविषया शुद्धा चानन्ता च । सत्त्वगुणात्मिका चेयमतो विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि । तदवस्थं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किञ्चित् सम्प्रज्ञायत इत्यसम्प्रज्ञातः । द्विविधः स योगश्चित्तवृत्तिनिरोध इति ।
Bhāṣya — Commentary
[Tattvavaiśāradī Vṛtti – excerpt] द्वितीयं सूत्रम् अवतारयति — तस्य लक्षणेति। तस्येति पूर्वसूत्रोपात्तं द्विविधं योगं परामृशति — योगश्चित्तवृत्तिनिरोधः। निरुध्यन्ते यस्मिन् प्रमाणादिवृत्तयोऽवस्थाविशेषे चित्तस्य सोऽवस्थाविशेषो योग इत्य् अर्थः। चित्तस्य सर्वतोनिरोधे ऽसंप्रज्ञातः, एकाग्रतायां तु संप्रज्ञात इति विभागः।